संस्कृतम्

अहं MIT विश्वविद्यालये प्राध्यापकः श्री जूलियन् षन् पर्यवेक्षणे PhD अभ्यासं कुर्वन् अस्मि | इतःपूर्वम् प्रा. कोस्टिस् दस्कलाकिस् पर्यवेक्षणे संगणकशास्त्रे SM कृतवान् | ततःपूर्वं Princeton विश्वविद्यालये प्रा. राबर्ट् टार्जन् पर्यवेक्षणे परिशोधनम् कृतवान् | मम प्राथमिक परिशोधनाभिलाषाः, प्रविभक्तविधिकल्पा शास्त्रे, बिंदुसत्रविधिकल्पा शास्त्रे च सन्ति|

तदुपरि, भाषा-व्याकरण-छंदस् -शास्त्रेषु गणित-संगणक-शास्त्र-सम्पर्क परिशोधनम् अपि इच्छाम्यहं| ये प्रस्तारौ आचार्यौ पिङ्गलविरहङ्कौ आविष्कृतवन्तौ, तौ इदानीम् Fibonacci संख्याः, Pascal त्रिकोणं, इति प्रसिद्धिम् प्राप्तवन्तौ | एतौ प्रस्तारयोः मूलाः माम् प्रा. मञ्जुल् भार्गव: दत्तवान् | इत्यादि गणितशास्त्र मूलपरिशोधन कर्तुम् अहं इच्छामि|

तेलुगु आङ्ग्ल संस्कृत भाषासु कवित्वलेखनम्, कथरचनम् च यथाशक्त्या करोमि |


२०२० हिन्दू विद्यार्थि संघ स्नातकोत्सवे दत्तम् स्वागतवचनम्

ॐ श्रीगुरुभ्यो नमः


आदरणीयाः २०२०-स्नातकगणस्य सोदरसोदर्याः,


नमांसि । स्वागतम् ।


अद्य, वयं सर्वे उपाधिपत्राणां स्वीकरणार्थं समागताः स्मः.। भवद्भ्यः सर्वेभ्योऽभिनन्दनानि ।


सुदीर्घकालश्रमफलमिदम् । परन्तु केषां श्रमस्य फलम् एतत्? वयं एतावत् अवर्धामहि यतः, बहवः जनाः अस्मभ्यं अनिर्वचनीय त्यागान् अकुर्वन्. तेषु प्रमुखाः संति अस्माकं मातृ, पितृ, गुरु देवाः । मातः! नवमासान् गर्भे धृत्वा, जन्म दत्वा, मां वर्धयितवती भवती; इदं मम हृदयपूर्वकाभिवन्दनम् । पितः! कुटुम्बस्य मूलस्थम्भं भूत्वा विकासपथं अदर्शयत्; अयं मम साष्टाङ्गप्रणामः । गुरवः! सरस्वतीकटाक्षं दत्तवन्तः भवन्तः । अयं मम प्राञ्जलिः । अगणनीयाः इतराः अपि मम वर्धनार्थं श्रमितवन्तः । तेभ्यः अपि कृतज्ञताः. समर्प्यन्ते ।


मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव ।


आदरणीय-सोदरसोदर्याः! एतावत् पर्यंतं, वयं विद्यार्थिनः । इतःपरं वयं दायित्ववन्तः भूत्वा लोके व्यवहरिष्यामः ।


अस्मिन् अवसरे मम आचार्यस्य वाक्यानि स्मरणपथे आयान्ति । तस्य सारांशः एवम् अस्ति -


लोके भिन्नाः शक्तयः भ्रमराः इव वर्तन्ते । मानवः कीटकवत् अनवधानः अस्ति चेत् भ्रमराः तं भ्रमरकीटकन्यायानुगुणं आवृण्वन्ति । परन्तु यदि सः मानवः स्वधर्मे प्रतिष्ठितः भवति, तर्हि धर्मप्रसारितकान्तिकिरणाः तस्य हृदयकमलं विकासयन्ति । तत् कुसुमं भ्रमरान् सर्वान् आकर्षयति. । तथा ते एव भ्रमराः आनन्दमकरन्दप्रसारकाः भवन्ति ।


तर्हि, वयं धर्मपथम् अनुसृत्य लोककल्याणहेतुकाः भवेम ।


उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत - इति कठोपनिषदः उपदेशं पालयाम ।


सर्वे भवन्तु सुखिनः. ।

सर्वे सन्तु निरामयाः. ।

सर्वे भद्राणि पश्यन्तु ।

मा कश्चिद्दु:खभाग्भवेत् ।


ओं शान्तिः शान्तिः शान्तिः